(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.196. अध्यायः 196
Mahabharata - Drona Parva - Chapter Topics
अश्वत्थाम्ना सक्रोधं युधिष्ठिराद्युपालभ्यः॥ 1 ॥ तथा द्रोणस्य नारायणास्त्रलाभप्रकारादिकथनपूर्वकं तेन पाण्डवादिवध प्रतिज्ञानम्॥ 2 ॥


Mahabharata - Drona Parva - Chapter Text

सञ्जय उवाच। 7-196-0x(4780)(54177)
छद्मना निहतं श्रुत्वा पितरं पापकर्मणा।
बाष्पेणापूर्यत द्रौणी रोषेण च नरर्षभ॥ 7-196-1(54178)
तस्य क्रुद्धस्य राजेन्द्र वपुर्दीप्तमदृश्यत।
अन्तकस्येव भूतानि जिहीर्षोः कालपर्यये॥ 7-196-2(54179)
अश्रूपुर्णे ततो नेत्रे व्यपमृज्य पुनः पुनः।
उवाच कोपान्निःश्वस्य दुर्योधनमिदं वचः॥ 7-196-3(54180)
पिता मम यथा क्षुद्रैर्न्यस्तशस्त्रो निपातितः।
धर्मध्वजवता पापं कृतं तद्विदितं मम।
अनार्यं सुनृशंसं च धर्मपुत्रस्य मे श्रुतम्॥ 7-196-4(54181)
युद्धेष्वपि प्रवृत्तानां ध्रुवं जयपराजयौ।
द्वयमेतद्भवेद्राजन्वधस्तत्र प्रशस्यते॥ 7-196-5(54182)
न्यायवृत्तो वधो यस्तु संङ्ग्रामे युध्यतो भवेत्।
न स दुःखाय भवति तथा दृष्टो हि स द्विजैः॥ 7-196-6(54183)
गतः स वीरलोकाय पिता मम न संशयः।
न शोच्यः पुरुषव्याघ्र यस्तदा निधनं गतः॥ 7-196-7(54184)
यत्तु धर्मप्रवृतः सन्केशग्रहणमाप्तवान्।
पश्यतां सर्वसैन्यानां तन्मे मर्माणि कृन्तति॥ 7-196-8(54185)
मयि जीवति यत्तातः केशग्रहमवाप्तवान्।
कथमन्ये करिष्यन्ति पुत्रेभ्यः पुत्रिणः स्पृहाम्॥ 7-196-9(54186)
कामात्क्रोधादविज्ञानाद्वर्षाद्बाल्येन वा पुनः।
विधर्मकाणि कुर्वन्ति तथा परिभवन्ति च॥ 7-196-10(54187)
तदिदं पार्षतेनेह महदाधर्मिकं कृतम्।
अवज्ञाय च मां नूनं नृशंसेन दुरात्मना॥ 7-196-11(54188)
तस्यानुबन्धं द्रष्टाऽसौ धृष्टद्युम्नः सुदारुणम्।
अकार्यं परमं कृत्वा मिथ्यावादी च पाण्डवः॥ 7-196-12(54189)
यो ह्यसौ छद्मनाऽऽचार्यं शस्त्रं सन्न्यासयत्तदा।
तस्याद्य धर्मराजस्य भूमिः पास्यति शोणितम्॥ 7-196-13(54190)
शपे सत्येन कौरव्य इष्टापूर्तेन चैव ह।
अहत्वा सर्वपाञ्चालाञ्जीवेयं न कथञ्चन॥ 7-196-14(54191)
सर्वोपायैर्यतिष्यामि पाञ्चालानामहं वधे।
धृष्टद्युम्नं च समरे हन्ताऽहं पापकारिणम्॥ 7-196-15(54192)
कर्मणा येन तेनेह मृदुना दारुणेन च।
पाञ्चालानां वधं कृत्वा शान्तिं लब्धास्मि कौरव॥ 7-196-16(54193)
यदर्थं पुरुषव्याघ्र पुत्रानिच्छन्ति मानवाः।
प्रेत्य चेह च सम्प्राप्तात्त्रायन्ते महतो भयात्॥ 7-196-17(54194)
पित्रा तु मम साऽवस्था प्राप्ता निर्बन्धुना यथा।
मयि शैलप्रतीकाशे पुत्रे शिष्ये च जीवति॥ 7-196-18(54195)
धिङ्ममास्त्राणि दिव्यानि धिग्बाहू धिक्पराक्रमम्।
यं स्म द्रोणः सुतं प्राप्य केशग्रहमवाप्तवान्॥ 7-196-19(54196)
स तथाहं करिष्यासि यथा भरतसत्तम।
परलोकगतस्यापि भविष्याम्यनृणः पितुः॥ 7-196-20(54197)
आर्येण हि न वक्तव्या कदाचित्स्तुतिरात्मनः।
पितुर्वधममृष्यंस्तु वक्ष्याम्यद्येह पौरुषम्॥ 7-196-21(54198)
अद्य पश्यन्तु मे वीर्यं पाण्डवाः सजनार्दनाः।
मृद्गतः सर्वसैन्यानि युगान्तमिव कुर्वतः॥ 7-196-22(54199)
न हि देवा न गन्धर्वा नासुरा न च राक्षसाः।
अद्य शक्ता रणे जेतुं रथस्थं मां नरर्षभाः॥ 7-196-23(54200)
मदन्यो नास्ति लोकेऽस्मिन्नर्जुनाद्वाऽस्त्रवित्क्वचित्।
अहं हि ज्वलतां मध्ये मयूखानामिवांशुमान्।
प्रयोक्ता देवसृष्टानामस्त्राणां पृतनागतः॥ 7-196-24(54201)
भृशमिष्वसनादद्य मत्प्रयुक्ता महाहवे।
दर्शयन्तः शरा वीर्यं प्रमथिष्यन्ति पाण्डवान्॥ 7-196-25(54202)
अद्य सर्वा दिशो राजन्धाराभिरिव सङ्कुलाः।
आवृताः पत्रिभिस्तीक्ष्णैर्द्रष्टारो मामकैरिह॥ 7-196-26(54203)
विकिरञ्छरजालानि सर्वतो भैरवस्वनान्।
शत्रून्निपातयिष्यामि महावात इव द्रुमान्॥ 7-196-27(54204)
न हि जानाति बीभत्सुस्तदस्त्रं न जनार्दनः।
न भीमसेनो न यमौ न च राजा युधिष्ठिरः॥ 7-196-28(54205)
न पार्षतो दुरात्माऽसौ न शिखण्डी न सात्यकिः।
यदिदं मयि कौरव्य सकल्यं सनिवर्तनम्॥ 7-196-29(54206)
नारायणाय मे पित्रा प्रणम्य विधिपूर्वकम्।
उपहारः पुरा दत्तो ब्रह्मरूप उपस्थितः॥ 7-196-30(54207)
तं स्वयं प्रतिगृह्याथ भगवान्स वरं ददौ।
वव्रे पिता मे परममस्त्रं नारायणं ततः॥ 7-196-31(54208)
अथैनमब्रवीद्राजन्भागवान्देवसत्तमः।
भविता त्वत्समो नान्यः कश्चिद्युधि नरः क्वचित्॥ 7-196-32(54209)
न त्विदं सहसा ब्रह्मन्प्रयोक्तव्यं कथञ्चन।
न ह्येतदस्त्रमन्यत्र वधाच्छत्रोर्निवर्तते॥ 7-196-33(54210)
न चैतच्छक्यते जेतुं को न वध्येत वै प्रभो।
अवध्यमपि हन्याद्वि तस्मान्नैतत्प्रयोजयेत्॥ 7-196-34(54211)
अथ सङ्ख्ये रथस्यैव शस्त्राणां च विसर्जनम्।
प्रयाचनं च शत्रूणां गमनं शरणस्य च॥ 7-196-35(54212)
एते प्रशमने योगा महास्त्रस्य परन्तप।
सर्वथा पीडितो हिंस्यादवध्यान्पीडयन्रणे॥ 7-196-36(54213)
तज्जग्राह पिता मह्यमब्रवीच्चैव स प्रभुः।
त्वं वधिष्यसि सर्वाणि शस्त्रवर्षाण्यनेकशः।
अनेनास्त्रेण सङ्ग्रामे तेजसा च ज्वलिष्यसि॥ 7-196-37(54214)
एवमुक्त्वा स भगवान्दिवमाचक्रमे प्रभुः।
एतन्नारायणादस्त्रं तत्प्राप्तं पितृबन्धुना॥ 7-196-38(54215)
तेनाहं पाण्डवांश्चैव पाञ्चालान्मात्स्यकेकयान्।
विद्रावयिष्यामि रणे शचीपतिरिवासुरान्॥ 7-196-39(54216)
यथायथाऽहमिच्छेयं तथा भूत्वा शरा मम।
निपतेयुः सपत्नेषु विक्रमत्स्वपि भारत॥ 7-196-40(54217)
यथेष्टमश्मवर्षेण प्रवर्षिष्ये रणे स्थितः।
अयोमुखैश्च विहगैर्द्रावयिष्ये महारथान्॥ 7-196-41(54218)
परश्वथांश्च निशितानुत्स्रक्ष्येऽहमसंशयम्॥ 7-196-42(54219)
सोऽहं नारायणास्त्रेण महता शत्रुतापनः।
शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान्॥ 7-196-43(54220)
मित्रब्रह्मगुरुद्रोही जाल्मकः सुविगर्हितः।
पाञ्चालापशदश्चाद्य न मे जीवन्विमोक्ष्यते॥ 7-196-44(54221)
तच्छ्रुत्वा द्रोणपुत्रस्य पर्यवर्तत वाहिनी।
ततः सर्वे महाशङ्खान्दध्मुः पुरुषसत्तमाः।
भेरीश्चाभ्यहनन्हृष्टा डिण्डिभांश्च सहस्रशः॥ 7-196-45(54222)
तथा ननाद वसुधा खुरनेमिप्रपीडिता।
स शब्दस्तुमुलः खं द्यां पृथिवीं च व्यनादयत्॥ 7-196-46(54223)
तं शब्दं पाण्डवाः श्रुत्वा पर्जन्यनिनदोपमम्।
समेत्य रथिनां श्रेष्ठाः सहिताश्चाप्यमन्त्रयन्॥ 7-196-47(54224)
तथोक्त्वा द्रोणपुत्रस्तु वार्युपस्पृश्य भारत।
प्रादुश्चकार तद्दिव्यमस्त्रं नारायणं तदा॥ ॥ 7-196-48(54225)

इति श्रीमन्महाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि पञ्चदशदिवसयुद्धे षण्णवत्यधिकशततमोऽध्यायः॥ 196 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-196-4 धर्मध्वजवता दाम्भिकेन। तत् अनृतवचनरूपं पापम्। अनार्यं नीचयोग्यं कर्म॥ 5-196-10 बाल्येन चापकेन। विधर्मकाणि धर्मविरुद्धानि॥ 5-196-12 अनुबन्धं फलम्। पाण्डवश्च अनुबन्धं द्रष्टेत्यनुषज्यते॥ 5-196-24 मयूखानां मयूखवताम्॥ 5-196-29 कल्यः प्रयोगः। निवर्तनमुपसंहारः॥ 5-196-30 ब्रह्मरूपो वेदरूपः। वैदिकैर्मन्त्रैः स्तुतवानित्यर्थः॥ 5-196-34 शक्यते ज्ञातुं केन वध्येदिति प्रभो इति झ. पाठः। तत्र केन प्रत्यस्त्रेण वध्येत् वध्येत इति ज्ञातुमित्यर्थः॥ 5-196-35 रथस्यैव विसर्जनम्। शस्त्राणामपि विसर्जनं च। प्रयाचनं मावधीरिति याचनं। शरणस्य गमनं त्वमेव शरणं न इति कीर्तनं च॥ 5-196-36 पीडितः पीडितं शस्त्रान्तरेण बाधितम्। पुंस्त्वमार्षम्॥ 5-196-38 पितृबन्धुना मया॥ 5-196-44 जाल्मको मूर्ख॥ 5-196-196 षण्णवत्यधिकशततमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.